सरस्वती सूक्त
इयमददाद् रभसमृणच्युतं दिवोदासं वध् रयश् वाय दादुषे ।
या शश् वन्तमाचखादावसं पणिं ता ते दात्राणि तविषा सरस्वति ॥ १ ॥
इयं शुष्मेभिर्बिसखा इवारुजत् सानु गिरीणां तविषेभिरुर्मिभिः ।
पारावतघ्नीमवसे सुवृक्तिभिः सरस्वतीमा विवासेम धीतिभिः ॥ २ ॥
सरस्वति देवनिदो निबर्हय प्रजां विश् वस्य बृसयस्य मायिनः ।
उत क्षितिभ्योऽवनीरविन्दो विषमेभ्यो अस्त्रवो वाजिनीवति ॥ ३ ॥
प्रणो देवि सरस्वती वाजेभिर्वाजिनीवती । धीनामवित्र्यवतु । ॥ ४ ॥
यस्या देवि सरस्वत्युपब्रूते धने हिते । इन्द्रं न वृत्रतूर्ये ॥ ५ ॥
त्वं देवि सरस्वत्यवा वाजेषु वाजिनि । रदा पूषेव नः सनिम् ॥ ६ ॥
उत स्या नः सरस्वती घोरा हिरण्यवर्तनिः ।
वृत्रघ्नी वष्टि सुष्टुतिम् ॥ ७ ॥
यस्या अनन्तो अर्हुतस्त्वेषश् चेरिष्णुरर्णवः ।
अमश् चरति रोरुवत् ॥ ८ ॥
सा नो विश् वा अति द्विषः स्वसृरन्या ऋतावरी ।
अतन्नहेव सूर्यः ॥ ९ ॥
उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा ।
सरस्वती स्तोम्या भूत् ॥ १० ॥
आपप्रुषी पार्थिवान्युरु रजो अन्तरिक्षम् ।
सरस्वती निदस्पातु ॥ ११ ॥
त्रिषधस्था सप्तधातुः पञ्च जाता वर्धयन्ती ।
वाजेवाजे हव्या भूत् ॥ १२ ॥
प्र या महिम्ना महिनासु चेकिते द्युम्नेभिरन्या अपसामपस्तमा ।
रथ इव बृहति विभ्वने कृतोपस्तुत्या चिकितुषा सरस्वती ॥ १३ ॥
सरस्वत्यभि नो नेषि वस्यो माप स्फरीः पयसा मा न आ धक् ।
जृषस्व नः सख्या वेश्याच मा त्वत् क्षेत्राण्यरणानि गन्म ॥ १४ ॥
॥ ऋग्वेद ६-६१ ॥
www.samaymaya.com
|